Vachmi

प्रश्न १. "अष्टाध्यायी" इत्यस्य ग्रन्थस्य रचनाकारः अस्ति
(१) पाणिनिः
(२) पतञ्जलिः
(३) वररुचिः
(४) वरदराजः
प्रश्न २. "महाभास्य" इत्यस्य ग्रन्थस्य रचनाकारः अस्ति
(१) पाणिनिः
(२) पतञ्जलिः
(३) वररुचिः
(४) वरदराजः
प्रश्न ३. पाणिनिना विरचितं नाटकं किम्?
(१) मृच्छकटिकम्
(२) जाम्बवतीविजयम्
(३) अनर्घराघवम्
(४) अविमारकम्
प्रश्न ४. अनुक्ते कर्मणि _____ स्यात्
(१) प्रथमा
(२) द्वितीया
(३) तृतीया
(४) सप्तमी
प्रश्न ५. "लक्ष्म्या सेवितः" इत्यत्र सेव् + ____ प्रत्ययः भविष्यति ।
(१) क्त
(२) तद्धित
(३) तिङ्
(४) यत्
प्रश्न ६. अन्तरेण _____ न सुखम् ।
(१) हरये
(२) हरिं
(३) हरेः
(४) हरिणा
प्रश्न ७. "लघुसिद्धातकौमुदी" इत्यस्य ग्रन्थस्य रचनाकारः अस्ति
(१) पाणिनिः
(२) पतञ्जलिः
(३) वररुचिः
(४) वरदराजः
प्रश्न ८. ______ हीनाः पशुभिः समानाः
(१) अर्थेण
(२) धर्मेण
(३) योगेन
(४) कामेन
प्रश्न ९. अर्थगौरवमिति कस्य वैशिष्ट्यम्?
(१) माघस्य
(२) भासस्य
(३) भारवेः
(४) दन्ण्डिनः
प्रश्न १०. सायणाचार्यः कः?
(१) ब्रह्मसूत्रभाष्यकारः
(२) गीताटीकाकारः
(३) धर्मशास्त्रप्रणेता
(४) वेदभाष्यकारः
प्रश्न ११. "अस्तुत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ...॥ " इति पद्यं कुत्र वर्तते?
(१) रघुवंशे
(२) महाभारते
(३) कुमारसम्भवे
(४) ऋतुसंहारे
प्रश्न १२. "गङ्गालहरी" इति केन विरचिता?
(१) गङ्गादासेन
(२) कालिदासेन
(३) जगन्नाथेन
(४) भारविणा
प्रश्न १३. "गङ्गालहरी" इति केन विरचिता?
(१) गङ्गादासेन
(२) कालिदासेन
(३) जगन्नाथेन
(४) भारविणा
प्रश्न १४. एतेषु किं खण्डकाव्यम्?
(१) ऋतुसंहारम्
(२) कादम्बरी
(३) किरातार्जुनीयम्
(४) शिशुपालवधम्
प्रश्न १५. हरिश्शेते इत्यत्र
(१) अनुनासिक सन्धिः
(२) लत्वसन्धिः
(३) शृत्वसन्धिः
(४) षुत्वसन्धिः
प्रश्न १६. जश्त्वसन्धेः उदाहरणम् भवति
(१) अजन्तः
(२) कविश्च
(३) षण्मुखः
(४) तट्टीका
प्रश्न १७. पठनस्य इच्छास्ति यस्मिन् सः
(१) चिकीर्षुः
(२) पिप्रच्छिषुः
(३) दित्सुः
(४) पिपठिषुः
प्रश्न १८. "नायकः" इत्यस्य पदस्य सन्धिविच्छेद अस्ति -
(१) ने + अकः
(२) नै + अकः
(३) नो + अकः
(४) नौ + अकः
प्रश्न १९. "चयनम्" इत्यस्य पदस्य सन्धिविच्छेद अस्ति -
(१) चे + अयनम्
(२) चै + अयनम्
(३) चौ + अयनम्
(४) चव + यनम्
प्रश्न २०. कालिदासस्य अस्मिन् ग्रन्थे अमरकण्टकस्य वर्णनं प्राप्यते -
(१) कुमारसम्भवे
(२) अभिज्ञानशाकुन्तले
(३) मेघदूते
(४) ऋतुसंहारे
प्रश्न २१. बालरामायणस्य लेखकः
(१) राजशेखरः
(२) सोमदेवः
(३) भोजराजः
(४) कुमारदासः
प्रश्न २२. नाना योगे विभक्तिर्न भवति -
(१) द्वितीया
(२) तृतीया
(३) पञ्चमी
(४) षष्ठी
प्रश्न २३. बालकः फलं खादति इत्यत्र बालकशब्दे का विभक्तिः ?
(१) द्वितीया
(२) तृतीया
(३) पञ्चमी
(४) प्रथमा
प्रश्न २४. अहं राजानं पश्यामि । राजानम् इत्यत्र विभक्तिवचनमस्ति ?
(१) प्रथमा बहुवचनम्
(२) द्वितीया बहुवचनम्
(३) द्वितीया एकवचनम्
(४) प्रथमा एकवचनम्
प्रश्न २५. पञ्चानां फलानां मूल्यम् किम् इत्यत्र पञ्चशब्दे विभक्तिवचनमस्ति ?
(१) पञ्चमी बहुवचनम्
(२) षष्ठी बहुवचनम्
(३) चतुर्थी बहुवचनम्
(४) सप्तमी बहुवचनम्
प्रश्न २६. सर्वस्मै बालकाय मोदकं ददातु इत्यत्र सर्वनामसंज्ञकं पदं किमस्ति?
(१) बालकम्
(२) मोदकम्
(३) ददातु
(४) सर्वस्मै
प्रश्न २७. नमतु इत्यत्र कः लकारः?
(१) लोट् लकारः
(२) लट् लकारः
(३) लृट् लकारः
(४) लङ् लकारः
प्रश्न २८. सेवे इत्यत्र पुरुषवचने के?
(१) प्रथमपुरुषः एकवचनम्
(२) प्रथमपुरुषः बहुवचनम्
(३) मध्यमपुरुषः बहुवचनम्
(४) उत्तमपुरुषः एकवचनम्
प्रश्न २९. आप्नुवन्ति इत्यत्र धातुः कः?
(१) गम्
(२) हस्
(३) आप्
(४) इष्
प्रश्न ३०. सन्ति इत्यत्र धातुलकारौ कौ ?
(१) अस् लट्
(२) भू लट्
(३) अस् लोट्
(४) गम् लट्
प्रश्न ३१. दैत्यारिः इत्यत्र सन्धिरस्ति ?
(१) अयादिसन्धिः
(२) यण्सन्धिः
(३) गुणसन्धिः
(४) दीर्घसन्धिः
प्रश्न ३२. हरये इत्यस्य विच्छेदः -
(१) हरि + ए
(२) हरे + ए
(३) हरै + ए
(४) हरय् + ए
प्रश्न ३३. रामश्शेते इत्यत्र केन सूत्रेण सन्धिः विधीयते ?
(१) ष्टुना ष्टुः
(२) शात्
(३) स्तोः श्चुना श्चुः
(४) इको यणचि
प्रश्न ३४. शिवो वंद्यः इत्यत्र उत्वं केन क्रियते ?
(१) अतो रोरप्लुतादप्लुते
(२) हशि च
(३) रो रि
(४) विसर्जनीयस्य सः
प्रश्न ३५. यथाशक्ति इत्यस्य विग्रहं वाक्यं भवति -
(१) शक्तेरभावः
(२) शक्तिम् शक्तिम् प्रति
(३) शक्तिमनतिक्रम्य
(४) एषु कोऽपि नास्ति
प्रश्न ३६. धवखदिरौ इत्यत्र कीदृशः द्वन्द्वः ?
(१) समाहारद्वन्द्वः
(२) इतरेतरद्वन्द्वः
(३) समुच्चयद्वन्द्वः
(४) अन्वाचयद्वन्द्वः
प्रश्न ३७. नीलोत्पलम् इत्यत्र कः समासः ?
(१) कर्मधारयः
(२) अव्ययीभावः
(३) द्वन्द्वः
(४) बहुव्रीहिः
प्रश्न ३८. पीतम्बरो हरिः इत्यत्र कः समासः ?
(१) कर्मधारयः
(२) अव्ययीभावः
(३) द्वन्द्वः
(४) बहुव्रीहिः
प्रश्न ३९. गम् धातोः क्तप्रत्यये रूपम् -
(१) गतवान्
(२) गमनम्
(३) गतः
(४) गतवती
प्रश्न ४०. पचनीयः इत्यत्र प्रत्ययोऽस्ति -
(१) ल्युट्
(२) क्तः
(३) शानच्
(४) अनीयर्